Good Governance in Mahabharata (महाभारते शासनधर्मः)

From Dharmawiki
Jump to navigation Jump to search

Mahabharata

In Mahabharata Shantiparva also, detailed guidelines are given as to the steps, which are necessary for providing good administration. Addressing Yudhishthira, Bhishmacharya says a Raja should take the following steps for better administration of the state. He says, Yudhishthira, please note that duties of the rulers are :-

  1. To employ good detectives.
  2. To appoint ambassadors to the states.
  3. Payment of wages to the employees in time.
  4. Collection of tax cleverly.
  5. Not acquiring or confiscating the wealth of the people illegally.
  6. Collecting good people.
  7. To be brave.
  8. Efficient in doing every work.
  9. To be truthful.
  10. Always working for the welfare of the people.
  11. Repairing or rebuilding old houses and temples.
  12. To look after those who are poor and afflicted.
  13. Imposing punishment on the guilty depending upon the facts of the case.
  14. Not to desert good people.
  15. Always keeping persons from respectable family around him.
  16. Collecting articles which are worth collecting.
  17. To serve the wise and knowledgeable individuals.
  18. Improve the happiness of army personnel by giving reward and by keeping them in good humour.
  19. Everyday to look after the interests of subjects.
  20. Should never feel difficulty in doing his work and should never consider it as a burden.
  21. Enriching the treasury or exchequer.
  22. Full and perfect security for the Capital city and should not depend on others in this behalf.
  23. Suppressing any groupism against the ruler.
  24. Not to allow any groupism interse among State Servants.
  25. Personally inspect the capital.
  26. Not to depend entirely on anyone.
  27. Should always follow the rules of Dharma.
  28. Should always be vigilant and industrious.
  29. Must be alert about the activities of enemies.
  30. Desert or extern wicked people and those indulging in heinous crimes.

Perturbed by seeing people who were violating Dharma, Artha and Kama namely Trivarga though it was the best rule for peace and happiness and were causing miseries to themselves and others, Vyasa, expressed his dismay in the following words :-

धर्मादर्थश्च कामश्च किमर्थं न सेव्यते ॥

Meaning: Why people do not follow Dharma, Artha and kama!

Bharataratna P.V Kane, after elaborate study of Rajaneeti Shastra has observed that Dharma was the supreme power in the State and was above the rulers who were only instruments to realize the goal of Dharma (History of Dharma Sastra Vol. III P-240). In other words, Constitution and the law is the ultimate authority and those who exercise sovereign power of the state are penultimate authorities.[1]

Greatness of Raja Dharma

त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव। मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः।।12.55.4 (12.56.4)

Need for Raja Dharma (Governance)

यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्।। 5

Attitude of a Raja (Ruler)

उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर। न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत्।। 14

साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च। पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते।। 15

विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः। घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः।। 16

Qualities of a Raja (Ruler)

गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः। सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः।। 12.55.19 (12.56.19)[2]

आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत। धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत्।। 12.71.6[3]

Balance

मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः। तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत्।। 12.55.21 (12.56.21)

Greater Good

यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।। 45

वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।। 46[2]

Protection of the Seven constituents of the Rajya (State) - Raja, friend, treasury, country, fort and army.

सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्। गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः।। 12.56.4 (12.57.4)[4]

राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे। आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि।। 12.68.69 (69.64)[5]

तथा जनपदाश्चैव पुरं च कुरुनन्दन। एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः।। (70) 65

Eligibility of a Raja (Ruler)

गुप्तमन्त्रो (आत्मवांश्च) जितक्रोधः शास्त्रार्थकृतनिश्चयः। धर्मे चार्थे च कामे च मोक्षे च सततं रतः।। 12.56.13

त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति। वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम्।। 14

यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः। सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति।। 38

यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः। न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति।। 39

Who is a Praiseworthy Raja (Ruler) ?

अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते। त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः।। 17

Responsibilities of the Raja (Ruler)

कोशस्योपार्जनरतिर्यमवैश्रवणोपमः। वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः।। 12.56.18 (57.18)

अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः। 19[4]

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्। प्रसादयति धर्मेण प्रसाद्य च विराजते।। 12.67.9 (68.9)[6]

कृपणानाथवृद्धानां विधवानां च योषिताम्। योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्।। 12.86.24[7]

Behaviour of the Raja (Ruler)

नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता।। 12.56.19 (57.19)

स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः। काले दाता च भोक्ता च शुद्धाचारस्तथैव च।। 22

Raja's aids

शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः। शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः।। 23

विद्याविदो लोकविदः परलोकान्ववेक्षकान्। धर्मे च निरतान्साधूनचलानचलानिव। 24

सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान्। तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः।। 25

Who is a Trustworthy Raja (Ruler) ?

अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः। राजा भवति भूतानां विश्वास्यो हिमवानिव।। 29

Greatest Raja

प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः। सुदर्शः सर्ववर्णानां नयापनयवित्तथा।। 30

क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः। अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः।। 31

आरब्धान्येव कार्याणि न पर्यवसितान्यपि। यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः।। 32

What should the Raja enforce ?

Fearlessness

पुत्रा इव पितुर्गेहे विषये यस्य मानवाः। निर्भया विचरिष्यन्ति स राजा राजसत्तमः।। 12.56.33 (12.57.33)[4]

स्वेषु धर्मेष्ववस्थाप्यः प्रजाः सर्वा महीपतिः। धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत्।। 12.59.21 (60.19)[8]

Law and Order

अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः। नयापनयवेत्तारः स राजा राजसत्तमः।। 34

स्वधर्मनिरता यस्य जना विषयवासिनः। असङ्घातरता दान्ताः पाल्यमाना यथाविधि।। 35

वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः। विषये दानरुचयो नरा यस्य स पार्थिवः।। 36[4]

Rajya Raksha Sadhana

चारश्च प्रणिधिश्चैव काले दानममत्सरः। युक्त्या दानं न चादानमयोगेन युधिष्ठिर।। 12.57.5 (58)

सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्। अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम्।। 6

केतनानां च जीर्णानामवेक्षा चैव सीदताम्। द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः।। 7

साधूनामपरित्यागः कुलीनानां च धारणम्। निचयश्च निचेयानां सेवा बुद्धिमतामपि।। 8

बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्। कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्।। 9

पुरगुप्तिरविश्वासः पौरसंघातभेदनम्। अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्।। 10

उपजापश्च भृत्यानामात्मनः पुरदर्शनम्। अविश्वासः स्वयं चैव परस्याश्वासनं तथा।। 11

नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च। रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्।। 12[9]

What should a Raja do ?

वेदानधीत्य धर्मेण राजशास्त्राणि चानघ। संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च।। 12.62.16 (63.16)

पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर। राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च।। 17

आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः। संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु।। 18

स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव। अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ।। 19

अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि। देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः।। 20

अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्। सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्।। 21[10]

भूसस्कारं धर्मसंस्कारयोग्यं दीक्षाचर्यां पालनं च प्रजानाम्। विद्याद्राज्ञः सर्वभूतानुकम्पा देहत्यागं चाहवे धर्ममग्र्यम्।। 12.64.2 (65.2)[11]

Raja's Kshatra Dharma

आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च। विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम्।। 12.63.26 (64.27)[12]

Raja Dharma

धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा। त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति।। 12.65.37 (66.37)[13]

Need for a Raja

राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः। जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः।। 12.66.16 (67.16)[14]

हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्। हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्।। 12.67.14 (68.14)

यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च। हरेयुः सहसा पापा यदि राजा न पालयेत्।। 16

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्।। 18

हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः। भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्।। 28

Fearlessness - विवृत्य हि यथाकामं गृहद्वाराणि शेरते। मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः।। 30

स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः। निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः।। 32

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्। अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः।। 33[6]

Facets of the Raja

कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा। भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः।। 12.66.41 (68.41)

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा। मिथ्योपचरितो राजा तदा भवति पावकः।। 42

यदा पश्यति चारेण सर्वभूतानि भूमिपः। क्षेमं च कृत्वा व्रजति तदा भवति भास्करः।। 43

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्। सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः।। 44

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्‍डैर्नियच्छति। धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा।। 45

यदा तु धनधाराभिस्तर्पयत्युपकारिणः। आच्छिनत्ति च रत्नानि विविधान्यपकारिणां।। 46

श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति। तदा वैश्रवणो राजा लोके भवति भूमिपः।। 47[6]

Fortification

न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन। नगरोपवने चैव पुरोद्याने तथैव च।। 12.68.6 (69.6)

संस्थानेषु च सर्वेषु पुटेषु नगरस्य च। मध्ये च नरशार्दूल तथा राजनिवेशने।। 7

Appointment of Spies

प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन्। पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान्।। 12.68.8 (69.8)

Appointment of Ministers (Mantri)

विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः। दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते।। 12.68.15 (69)[5]

कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान्। देशकालविधानज्ञान्भर्तृकार्यहितैपिणः। नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः।। 12.83.8

पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्। कुलीनान्सत्वसंपन्नानिङ्गितज्ञाननिष्ठुरान्।। 12.83.23

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः। नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः।। 12.83.24[15]

Tax and treasury

आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन। षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये।। 12.68.27 (69.25)

दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा। तन्नाददीत सहसा पौराणां रक्षणाय वै।। 28 (26)[5]

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्। शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्।। 12.71.10[3]

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्। योगक्षेमं च संप्रेक्ष्य वणिजां कारयेत्करान्।। 12.87.13

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्। शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्।। 14

उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर। यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः।। 15

फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्। 16[16]

Justice

यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः। भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने।। 12.68.29 (69.27)

श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः। व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्।। 30 (28)[5]

ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्। असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः।। 12.85.19[17]

Qualification

वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्। दानशीलश्च सततं यज्ञशीलश्च भारत।। 12.68.33 (31)

Infrastructure

विशालान्राजमार्गांश्च कारयेत नराधिपः। प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्।। 12.68.58 (69.53)[5]

While establishing a city, the Raja must develop the following

भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्। निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटंकटान्।। 12.86.12[7]

36 Qualities of a Raja

चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः। अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः।। 12.70.3

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः।। 4

संदधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः। नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया।। 5

अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः। आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्।। 6

नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्। विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु।। 7

अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः। स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्।। 8

अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया। अर्चेद्देवानदम्भेन श्रियमिच्छेदकृत्सिताम्।। 9

सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित्। सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत्।। 10

प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत्। क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु।। 11[18]

Who should become a Raja ?

नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्।। 12.78.44[19]

Selection of Amatya

मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंस्यवान्। यो मानितोऽमानितो वा न सन्तुष्येत्कथंचन।। 12.80.23 (22)

ऋत्विग्वा यदि वाऽऽचार्यः सखा वाऽत्यंतसत्कृतः। गृहे वसेदमात्यस्ते स स्यात्परमपूजितः।। 24 (23)

कुलीनः शीलसंपन्नस्तितिक्षुरविकत्थनः। शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः।। 29 (28)

एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः। पूजिताः संबिभक्ताश्च सुसहायाः स्वनुष्ठिताः।। 30 (29)[20]

Courtiers

ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः। शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः।। 12.83.2[15]

Finance Minister

एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना। तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः।। 12.83.21

परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान्। पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः।। 12.83.22[15]

Secret counselling

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः। सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति।। 12.83.41

ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः। सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति।। 42

सत्यवाक्शीलसंपन्नो गन्भीरः सत्रपो मृदुः। पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति।। 43

संतुष्टः संमतः सद्भिः शौटीरो द्वेष्यपापकः। मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति।। 44

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः। योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति।। 46

संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः। नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः।। 52[15]

Mantri Mandal

चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन्। क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः।। 12.85.7

वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया। त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके।। 8

अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा। पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्।। 9

श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्। कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्।। 10

वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम्। अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्।। 11[17]

Qualities of an Amatya and Senapati

धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्। मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता।। 12.85.30

कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते। एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्।। 31[17]

Additional specific qualities required in a Senapati

व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः। वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्।। 12.85.32[17]

Where should a Raja stay ?

यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्। दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्।। 12.86.6

विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः। धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः।। 7

ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्। प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्।। 8

सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्। शूराढ्यं प्राज्ञसंपूर्णं ब्रह्मघोषानुनादितम्।। 9

समाजोत्सवसंपन्नं सदापूजितदैवतम्। वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्।। 10[7]

A Raja must protect

आशयाश्चोदपानाश्च प्रभूतसलिलाकराः। निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः।। 12.86.15[7]

Governance principles

बाह्यमाभ्यन्तरं चैव पौरजानपदं तथा। चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्।। 12.86.19

चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः। अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्।। 20[7]

ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा। विंशतित्रिंशतीशं च सहस्रस्य च कारयेत्।। 12.87.3

ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत्। तानाचक्षीत दशिने दशिको विंशिने पुनः।। 4

विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने। ग्रामाणां शतपालाय सर्वमेव निवेदयेत्।। 5

यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया। दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः।। 6

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः। महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्। तत्र ह्यनेकपायत्तं राज्ञो भवति भारत।। 7

शाखानगरमर्हस्तु सहस्रपतिरुत्तमः। धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसंगतः।। 8

तेषां संग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत्। धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः।। 9[16]

Self introspection / Self-evaluation

किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम्। कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत्।। 12.89.14[21]

What constitutes Raja Dharma ?

संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते। निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते।। 12.91.31

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा। पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते।। 32

संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान्। तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते।। 33

यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति। यदा जयति संग्रामे स राज्ञो धर्म उच्यते।। 34

पापमाचरतो यत्र कर्मणा व्याहृतेन वा। प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते।। 35

यदा सारणिकान्राजा पुत्रवत्परिरक्षति। भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते।। 36

यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः। कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते।। 37

कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति। हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते।। 38

विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति। संपूजयति साधूंश्च स राज्ञो धर्म उच्यते।। 39

सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति। पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते।। 40

ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च। यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते।। 43[22]

Aishwarya vardhaka Sadhana

त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः। संग्रहश्चैव भूतानां दानं च मधुरा च वाक्।। 12.91.53

अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्। एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः।। 54[22]

  1. M.Rama Jois (2004), Trivarga, Mumbai: Bharatiya Vidya Bhavan.
  2. 2.0 2.1 Mahabharata, Shanti Parva, Adhyaya 55
  3. 3.0 3.1 Mahabharata, Shanti Parva, Adhyaya 71
  4. 4.0 4.1 4.2 4.3 Mahabharata, Shanti Parva, Adhyaya 56
  5. 5.0 5.1 5.2 5.3 5.4 Mahabharata, Shanti Parva, Adhyaya 68
  6. 6.0 6.1 6.2 Mahabharata, Shanti Parva, Adhyaya 67
  7. 7.0 7.1 7.2 7.3 7.4 Mahabharata, Shanti Parva, Adhyaya 86
  8. Mahabharata, Shanti Parva, Adhyaya 59
  9. Mahabharata, Shanti Parva, Adhyaya 57
  10. Mahabharata, Shanti Parva, Adhyaya 62
  11. Mahabharata, Shanti Parva, Adhyaya 64
  12. Mahabharata, Shanti Parva, Adhyaya 63
  13. Mahabharata, Shanti Parva, Adhyaya 65
  14. Mahabharata, Shanti Parva, Adhyaya 66
  15. 15.0 15.1 15.2 15.3 Mahabharata, Shanti Parva, Adhyaya 83
  16. 16.0 16.1 Mahabharata, Shanti Parva, Adhyaya 87
  17. 17.0 17.1 17.2 17.3 Mahabharata, Shanti Parva, Adhyaya 85
  18. Mahabharata, Shanti Parva, Adhyaya 70
  19. Mahabharata, Shanti Parva, Adhyaya 78
  20. Mahabharata, Shanti Parva, Adhyaya 80
  21. Mahabharata, Shanti Parva, Adhyaya 89
  22. 22.0 22.1 Mahabharata, Shanti Parva, Adhyaya 91